Activity combines that object with others, along with the countless underlying tendencies.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
tad asaṃkhyeyavāsanābhiś citram api parārthaṃ saṃhatyakāritvāt
tad asaṃkhyeyavāsanābhiś citram api parārthaṃ saṃhatyakāritvāt
YS 4.24
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] तद् एतच् चित्तम् असंख्येयाभिर् वासनाभिर् एव चित्रीकृतम् अपि परार्थं परस्य भोगापवर्गार्थं न स्वार्थं संहत्यकारित्वाद् गृहवत्। संहत्यकारिणा चित्तेन न स्वार्थेन भवितव्यं, न सुखचित्तं सुखार्थं न ज्ञानं ज्ञानार्थम् उभयम् अप्य् एतत् परार्थम्। यश् च भोगेनापवर्गेण चार्थेनार्थवान् पुरुषः स एव परो न परः सामान्यमात्रम्। यत् तु किंचित् परं सामान्यमात्रं स्वरूपेणोदाहरेद् वैनाशिकस् तत् सर्वं संहत्यकारित्वात् परार्थम् एव स्यात्। यस् त्व् असौ परो विशेषः स न संहत्यकारी पुरुष इति।