Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham

draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham

YS 4.23

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Any object inflames the *citta* with the seer and the seen.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] मनो हि मन्तव्येनार्थेनोपरक्तं, तत् स्वयं च विषयत्वाद् विषयिणा पुरुषेणात्मीयया वृत्त्याभिसंबद्धं, तद् एतच् चित्तम् एव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकम् अप्य् अविषयात्मकम् इवाचेतनं चेतनम् इव स्फटिकमणिकल्पं सर्वार्थम् इत्य् उच्यते। तद् अनेन चित्तसारूप्येण भ्रान्ताः केचित् तद् एव चेतनम् इत्य् आहुः अपरे चित्तमात्रम् एवेदं सर्वं नास्ति खल्व् अयं गवादिर् घटादिश् च सकारणो लोक इति। अनुकम्पनीयास् ते। कस्मात्, अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तम् इति। समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतस् तस्यालम्बनीभूतत्वाद् अन्यः। स चेद् अर्थश् चित्तमात्रं स्यात् कथं प्रज्ञयैव प्रज्ञारूपम् अवधार्येत। तस्मात् प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति। एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात् त्रयम् अप्य् एतज् जातितः प्रविभजन्ते ते सम्यग्दर्शिनस् तैर् अधिगतः पुरुषः।