Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam

citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam

YS 4.22

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Unmoving awareness assumes the shape of the particular conscious experience.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] अपरिणामिनी हि भोक्तृशक्तिर् अप्रतिसंक्रमा च परिणामिन्य् अर्थे प्रतिसंक्रान्तेव तद्वृत्तिम् अनुपतति। तस्याश् च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेर् अनुकारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिर् आख्यायते। तथा चोक्तम्। "न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम् / गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिम् अविशिष्टां कवयो वेदयन्ते" इति।