Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca

cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca

YS 4.21

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

[the best it can do] is to see a previous mind moment by becoming aware of awareness's impact on memory and mental activity.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] अथ चित्तं चेच् चित्तान्तरेण गृह्येत बुद्धिबुद्धिः केन गृह्यते, साप्य् अन्यया साप्य् अन्ययेत्य् अतिप्रसङ्गः। स्मृतिसंकरश् च, यावन्तो बुद्धिबुद्धीनाम् अनुभवास् तावत्यः स्मृतयः प्राप्नुवन्ति। तत्संकराच् चैकस्मृत्यनवधारणं च स्याद् इत्य् एवं बुद्धिप्रतिसंवेदिनं पुरुषम् अपलपद्भिर् वैनाशिकैः सर्वम् एवाकुलीकृतम्। ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन संगच्छन्ते केचित् तु सत्त्वमात्रम् अपि परिकल्प्यास्ति स सत्त्वो य एतान् पञ्च स्कन्धान् निक्षिप्यान्यांश् च प्रतिसंदधातीत्य् उक्त्वा तत एव पुनस् त्रस्यन्ति। तथा स्कन्धानां महन्निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोर् अन्तिके ब्रह्मचर्यं चरिष्यामीत्य् उक्त्वा सत्त्वस्य पुनः सत्त्वम् एवापह्नुवते। सांख्ययोगादयस् तु प्रवादाः स्वशब्देन पुरुषम् एव स्वामिनं चित्तस्य भोक्तारम् उपयन्तीति।