Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

na tat svābhāsaṃ dṛśyatvāt

na tat svābhāsaṃ dṛśyatvāt

YS 4.19

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

[But] it cannot see itself as an object.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] यथेतराणीन्द्रियाणि शब्दादयश् च दृश्यत्वान् न स्वाभासानि तथा मनोऽपि प्रत्येतव्यम्। न चाग्निर् अत्र दृष्टान्तः न ह्य् अग्निर् आत्मस्वरूपम् अप्रकाशं प्रकाशयति प्रकाशश् चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः। न च स्वरूपमात्रेऽस्ति संयोगः किंच स्वाभासं चित्तम् इत्य् अग्राह्यम् एव कस्यचिद् इति शब्दार्थः। तद्यथा स्वात्मप्रतिष्ठम् आकाशं न परप्रतिष्ठम् इत्य् अर्थः स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्रवृत्तिर् दृश्यते --- क्रुद्धोऽहं भीतोऽहम् अमुत्र मे रागोऽमुत्र मे क्रोध इति एतत् स्वबुद्धेर् अग्रहणे न युक्तम् इति।