[Yet,] an object can only be known if it excites the *citta*.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
taduparāgāpekṣitvāc cittasya vastu jñātājñātam
taduparāgāpekṣitvāc cittasya vastu jñātājñātam
YS 4.17
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तम् अभिसंबन्ध्योपरञ्जयन्ति। येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस् ततोऽन्यः पुनर् अज्ञातः वस्तुनो ज्ञाताज्ञातस्वरूपत्वात् परिणामि चित्तम्।