Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

na caikacittatantraṃ vastu tadapramāṇakaṃ tadā kiṃ syāt

na caikacittatantraṃ vastu tadapramāṇakaṃ tadā kiṃ syāt

YS 4.16

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

If an object were [merely] the construction of a single consciousness, how could it be measured? [If not objective,] what could it be?

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] एकचित्ततन्त्रं चेद् वस्तु स्यात् तदा चित्ते व्यग्रे निरुद्धे वास्वरूपम् एव तेनापरामृष्टम् अन्यस्याविषयीभूतम् अप्रमाणकम् अगृहीतस्वभावकं केनचित् तदानीं किं तत् स्यात्। संबध्यमानं च पुनश् चित्तेन कुत उत्पद्येत ये चास्यानुपस्थिता भागास् ते चास्य न स्युर् एवं नास्ति पृष्ठम् इत्य् उदरम् अपि न गृह्येत। तस्मात् स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते तयोः संबन्धाद् उपलब्धिः पुरुषस्य भोग इति।