Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ

vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ

YS 4.15

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Materialism and idealism are two, divergent paths [for describing reality].

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] बहुचित्तालम्बनीभूतम् एकं वस्तु साधारणं, तत् खलु नैकचित्तपरिकल्पितं नाप्य् अनेकचित्तपरिकल्पितं किंतु स्वप्रतिष्ठम्। कथं, वस्तुसाम्ये चित्तभेदात् धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवत्य् अधर्मापेक्षं तत एव दुःखज्ञानम् अविद्यापेक्षं तत एव मूढज्ञानं सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानम् इति। कस्य तच् चित्तेन परिकल्पितम्। न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः। तस्माद् वस्तुज्ञानयोर् ग्राह्यग्रहणभेदभिन्नयोर् विभक्तः पन्थाः। नानयोः संकरगन्धोऽप्य् अस्तीति। सांख्यपक्षे पुनर् वस्तु त्रिगुणं चलं च गुणवृत्तम् इति धर्मादिनिमित्तापेक्षं चित्तैर् अभिसंबध्यते। निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनात्मना हेतुर् भवति। केचिद् आहुः। ज्ञानसहभूर् एवार्थो भोग्यत्वात् सुखादिवद् इति त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपम् एवापह्नुवते।