The “that-ness” of an object is [merely the perception of] homogeneous change.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
pariṇāmaikatvād vastutattvam
pariṇāmaikatvād vastutattvam
YS 4.14
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रम् इन्द्रियं, ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषय इति, शब्दादीनां मूर्तिसमानजातीयानाम् एकः परिणामः पृथिवीपरमाणुस् तन्मात्रावयवस् तेषां चैकः परिणामः पृथिवी गौर् वृक्षः पर्वत इत्येवमादिर् भूतान्तरेष्व् अपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्य् उपादाय सामान्यम् एकविकारारम्भः समाधेयः। नास्त्य् अर्थो विज्ञानविसहचरः, अस्ति तु ज्ञानम् अर्थविसहचरं स्वप्नादौ कल्पितम् इत्य् अनया दिशा ये वस्तुस्वरूपम् अपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुस् ते तथेति प्रत्युपस्थितम् इदं स्वमाहात्म्येन वस्तु कथम् अप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपम् उत्सृज्य तद् एवापलपन्तः श्रद्धेयवचनाः स्युः।