Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

te vyaktasūkṣmā guṇātmānaḥ

te vyaktasūkṣmā guṇātmānaḥ

YS 4.13

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Gross or subtle, [things] are [merely] composed of sense-impressions.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] ते खल्व् अमी त्र्यध्वनो धर्मा वर्तमाना व्यक्तात्मानोऽतीतानागताः सूक्ष्मात्मानः षडविशेषरूपाः। सर्वम् इदं गुणानां संनिवेशविशेषमात्रम् इति परमार्थतो गुणात्मानः। तथा च शास्त्रानुशासनम् --- "गुणानां परमं रूपं न दृष्टिपथम् ऋच्छति / यत् तु दृष्टिपथं प्राप्तं तन् मायेव सुतुच्छकम् //" इति।