Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

atītānāgataṃ svarūpato 'sty adhvabhedād dharmāṇām

atītānāgataṃ svarūpato 'sty adhvabhedād dharmāṇām

YS 4.12

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

So, past and future do exist, in their own way.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] भविष्यद्व्यक्तिकम् अनागतम् अनुभूतव्यक्तिकम् अतीतं स्वव्यापारोपारूढं वर्तमानं, त्रयं चैतद् वस्तु ज्ञानस्य ज्ञेयम्। यदि चैतत् स्वरूपतो नाभविष्यन् नेदं निर्विषयं ज्ञानम् उदपत्स्यत। तस्माद् अतीतानागतं स्वरूपतोऽस्तीति। किंच भोगभागीयस्य वापवर्गभागीयस्य वा कर्मणः फलम् उत्पित्सु यदि निरुपाख्यम् इति तदुद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्येत। सतश् च फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते नापूर्वम् उत्पादयतीति। धर्मी चानेकधर्मस्वभावस् तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्य् एवम् अतीतम् अनागतं च। कथं तर्हि, स्वेनैव व्यङ्ग्येन स्वरूपेणानागतम् अस्ति। स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतम् इति वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिर् इति न सा भवत्य् अतीतानागतयोर् अध्वनोः। एकस्य चाध्वनः समये द्वाव् अध्वनौ धर्मिसमन्वागतौ भवत एवेति नाभूत्वा भावस् त्रयाणाम् अध्वनाम् इति।