Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ

hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ

YS 4.11

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Because of the connection between cause and effect, basis and support, [it follows that] if one goes, the other must too.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] हेतुर् धर्मात् सुखम् अधर्माद् दुःखं सुखाद् रागो दुःखाद् द्वेषस् ततश् च प्रयत्नस् तेन मनसा वाचा कायेन वा परिस्पन्दमानः परम् अनुगृह्णात्य् उपहन्ति वा ततः पुनर् धर्माधर्मौ सुखदुःखे रागद्वेषाव् इति प्रवृत्तम् इदं षडरं संसारचक्रम्। अस्य च प्रतिक्षणम् आवर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानाम् इत्य् एष हेतुः। फलं तु यम् आश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्य् अपूर्वोपजनः। मनस् तु साधिकारम् आश्रयो वासनानाम्। न ह्य् अवसिताधिकारे मनसि निराश्रया वासनाः स्थातुम् उत्सहन्ते। यद् अभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास् तदालम्बनम्। एवं हेतुफलाश्रयालम्बनैर् एतैः संगृहीताः सर्वा वासनाः एषाम् अभावे तत्संश्रयाणाम् अपि वासनानाम् अभावः।