Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tāsām anāditvaṃ cāśiṣo nityatvāt

tāsām anāditvaṃ cāśiṣo nityatvāt

YS 4.10

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

which are without beginning, being based on never-ending desires.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] तासां वासनानाम् आशिषो नित्यत्वाद् अनादित्वम्। येयम् आत्माशीर् मा न भूवं भूयासम् इति.सर्वस्य दृश्यते सा न स्वाभाविकी। कस्मात् जातमात्रस्य जन्तोर् अननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत् न च स्वाभाविकं वस्तु निमित्तम् उपादत्ते। तस्माद् अनादिवासनानुविद्धम् इदं चित्तं निमित्तवशात् काश्चिद् एव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति। घटप्रासादप्रदीपकल्पं संकोचविकासि चित्तं शरीरपरिमाणाकारमात्रम् इत्य् अपरे प्रतिपन्नाः तथा चान्तराभावः संसारश् च युक्त इति। वृत्तिर् एवास्य विभुनश् चित्तस्य संकोचविकासिनीत्य् आचार्यः। तच् च धर्मादिनिमित्तापेक्षम्। निमित्तं च द्विविधम् --- बाह्यम् आध्यात्मिकं च। शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि, चित्तमात्राधीनं श्रद्धाद्य् अध्यात्मिकम्। तथा चोक्तम् --- ये चैते मैत्र्यादयो ध्यायिनां विहारास् ते बाह्यसाधननिरनुग्रहात्मानः प्रकृष्टं धर्मम् अभिनिर्वर्तयन्ति। तयोर् मानसं बलीयः। कथं, ज्ञानवैराग्ये केनातिशय्येते, दण्डकारण्यं च चित्तबलव्यतिरेकेण शारीरेण कर्मणा शून्यं कः कर्तुम् उत्सहेत समुद्रम् अगस्त्यवद् वा पिबेत्।