Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

svarasavāhī viduṣo 'pi tathā rūḍho 'bhiniveśaḥ

svarasavāhī viduṣo 'pi tathā rūḍho 'bhiniveśaḥ

YS 2.9

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Inertia is rooted in relishing one’s own stream of consciousness.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] सर्वस्य प्राणिन इयम् आत्माशीर् नित्या भवति मा न भूवं भूयासम् इति। न चाननुभूतमरणधर्मकस्यैषा भवत्य् आत्माशीः। एतया च पूर्वजन्मानुभवः प्रतीयते। स चायम् अभिनिवेशः क्लेशः स्वरसवाही कृमेर् अपि जातमात्रस्य प्रत्यक्षानुमानागमैर् असंभावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदुःखम् अनुमापयति। यथा चायम् अत्यन्तमूढेषु दृश्यते क्लेशस् तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः। कस्मात् समाना हि तयोः कुशलाकुशलयोर् मरणदुःखानुभवाद् इयं वासनेति।