Conceit misidentifies the power of seeing as “a seer.”
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
dṛgdarśanaśaktyor ekātmatevāsmitā
dṛgdarśanaśaktyor ekātmatevāsmitā
YS 2.6
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] पुरुषो दृक्शक्तिर् बुद्धिर् दर्शनशक्तिर् इत्य् एतयोर् एकस्वरूपापत्तिर् इवास्मिता क्लेश उच्यते। भोक्तृभोग्यशक्त्योर् अत्यन्तविभक्तयोर् अत्यन्तासंकीर्णयोर् अविभागप्राप्ताव् इव सत्यां भोगः कल्पते। स्वरूपप्रतिलम्भे तु तयोः कैवल्यम् एव भवति कुतो भोग इति। तथा चोक्तम् --- "बुद्धितः परं पुरुषम् आकारशीलविद्यादिभिर् विभक्तम् अपश्यन् कुर्यात् तत्रात्मबुद्धिं मोहेन" इति।