From this: full control of the faculties.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
tataḥ paramā vaśyatendriyāṇām
tataḥ paramā vaśyatendriyāṇām
YS 2.55
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] शब्दादिष्व् अव्यसनम् इन्द्रियजय इति केचित्। सक्तिर् व्यसनं व्यस्यत्य् एनं श्रेयस इति। अविरुद्धा प्रतिपत्तिर् न्याय्या। शब्दादिसंप्रयोगः स्वेच्छयेत्य् अन्ये। रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानम् इन्द्रियजय इति केचित्। चित्तैकाग्र्याद् अप्रतिपत्तिर् एवेति जैगीषव्यः। ततश् च परमा त्व् इयं वश्यता यच् चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत् प्रयत्नकृतम् उपायान्तरम् अपेक्षन्ते योगिन इति।