There, the covering of the light [of the *citta*] disappears.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
tataḥ kṣīyate prakāśāvaraṇam
tataḥ kṣīyate prakāśāvaraṇam
YS 2.52
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] प्राणायामान् अभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म। यत् तद् आचक्षते। महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वम् आवृत्य तद् एवाकार्ये नियुङ्क्त इति। तद् अस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद् दुर्बलं भवति प्रतिक्षणं च क्षीयते। तथा चोक्तम्। "तपो न परं प्राणायामात् ततो विशुद्धिर् मलानां दीप्तिश् च ज्ञानस्य" इति।