The fourth [*jhana*] transcends in and out.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
bāhyābhyantaraviṣayākṣepī caturthaḥ
bāhyābhyantaraviṣayākṣepī caturthaḥ
YS 2.51
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] देशकालसंख्याभिर् बाह्यविषयपरिदृष्ट आक्षिप्तः। तथाभ्यन्तरविषयपरिदृष्ट आक्षिप्तः। उभयथा दीर्घसूक्ष्मः। तत्पूर्वको भूमिजयात् क्रमेणोभयोर् गत्यभावश् चतुर्थः प्राणायामः। तृतीयस् तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः। चतुर्थस् तु श्वासप्रश्वासयोर् विषयावधारणात् क्रमेण भूमिजयाद् उभयाक्षेपपूर्वको गत्यभावश् चतुर्थः प्राणायाम इत्य् अयं विशेष इति।