Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ

bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ

YS 2.50

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Externally or internally, with a fixed or moving point [of awareness], for a duration or for a count, watch long and short [breaths].

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः। यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः। तृतीयः स्तम्भवृत्तिर् यत्रोभयाभावः सकृट्प्रयत्नाद् भवति। यथा तप्ते न्यस्तम् उपले जलं सर्वतः संकोचम् आपद्यते तथा द्वयोः युगपद् गत्यभाव इति। त्रयोऽप्य् एते देशेन परिदृष्टा इयान् अस्य विषयो देश इति। कालेन परिदृष्टाः क्षणानाम् इयत्तावधारणेनावच्छिन्ना इत्य् अर्थः। संख्याभिः परिदृष्टा एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातस् तद्वन् निगृहीतस्यैतावद्भिर् द्वितीय उद्घात एवं तृतीयः। एवं मृदुर् एवं मध्य एवं तीव्र इति संख्यापरिदृष्टः। स खल्व् अयम् एवम् अभ्यस्तो दीर्घसूक्ष्मः।