Ignorance is seeing as permanent, essential, satisfying, or self that which is really impermanent, inessential, unsatisfying, and not-self
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā
anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā
YS 2.5
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] अनित्ये कार्ये नित्यख्यातिः। तद्यथा --- ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति। तथाशुचौ परमबीभत्से काये, --- "स्थानाद् बीजाद् उपष्टम्भान् निःस्यन्दान् निधनाद् अपि / कायम् आधेयशौचत्वात् पण्डिता ह्य् अशुचिं विदुः" // इति अशुचौ शुचिख्यातिर् दृश्यते। नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकम् आश्वासयन्तीवेति कस्य केनाभिसंबन्धः। भवति चैवम् अशुचौ शुचिविपर्यासप्रत्यय इति। एतेनापुण्ये पुण्यप्रत्ययस् तथैवानर्थे चार्थप्रत्ययो व्याख्यातः। तथा दुःखे सुखख्यातिं वक्ष्यति --- "परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः" इति। तत्र सुखख्यातिर् अविद्या। तथानात्मन्य् आत्मख्यातिर् बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्य् अनात्मन्य् आत्मख्यातिर् इति। तथैतद् अत्रोक्तम् --- "व्यक्तम् अव्यक्तं वा सत्त्वम् आत्मत्वेनाभिप्रतीत्य तस्य संपदम् अनु नन्दत्य् आत्मसंपदं मन्वानस् तस्य व्यापदम् अनु शोचत्य् आत्मव्यापदं मन्वानः स सर्वोऽप्रतिबुद्धः" इति। एषा चतुष्पदा भवत्य् अविद्या मूलम् अस्य क्लेशसंतानस्य कर्माशयस्य च सविपाकस्येति। तस्याश् चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम्। यथा नामित्रो मित्राभावो न मित्रमात्रं किंतु तद्विरुद्धः सपत्नः। यथा वागोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किंतु देश एव ताभ्याम् अन्यद् वस्त्वन्तरम्। एवम् अविद्या न प्रमाणं न प्रमाणाभावः किंतु विद्याविपरीतं ज्ञानान्तरम् अविद्येति।