Through purity, the protection of your own limbs and the non-contamination of others.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
śaucāt svāṅgajugupsā parair asaṃsargaḥ
śaucāt svāṅgajugupsā parair asaṃsargaḥ
YS 2.40
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] स्वाङ्गे जुगुप्सायां शौचम् आरभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर् भवति। किंच परैर् असंसर्गः कायस्वभावावलोकी स्वम् अपि कायं जिहासुर् मृज्जलादिभिर् आक्षालयन्न् अपि कायशुद्धिम् अपश्यन् कथं परकायैर् अत्यन्तम् एवाप्रयतैः संसृज्येत।