Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām

avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām

YS 2.4

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Ignorance is the field for the rest, whether they be dormant, suppressed, weakened, or aroused.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] अत्राविद्या क्षेत्रं प्रसवभूमिर् उत्तररेषाम् अस्मितादीनां चतुर्विधविकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम्। तत्र का प्रसुप्तिः। चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः। तस्य प्रबोध आलम्बने संमुखीभावः। प्रसंख्यानवतो दग्धक्लेशबीजस्य संमुखीभूतेऽप्य् आलम्बने नासौ पुनर् अस्ति, दग्धबीजस्य कुतः प्ररोह इति। अतः क्षीणक्लेशः कुशलश् चरमदेह इत्य् उच्यते। तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति। सतां क्लेशानां तदा बीजसामर्थ्यं दग्धम् इति विषयस्य संमुखीभावेऽपि सति न भवत्य् एषां प्रबोध इत्य् उक्ता प्रसुप्तिर् दग्धबीजानाम् अप्ररोहश् च। तनुत्वम् उच्यते --- प्रतिपक्षभावनोपहताः क्लेशास् तनवो भवन्ति। तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः। कथं, रागकाले क्रोधस्यादर्शनात्। न हि रागकाले क्रोधः समुदाचरति। रागश् च क्वचिद् दृश्यमानो न विषयान्तरे नास्ति। नैकस्यां स्त्रियां चैत्रो रक्त इत्य् अन्यासु स्त्रीषु विरक्तः, किंतु तत्र रागो लब्धवृत्तिर् अन्यत्र तु भविष्यद्वृत्तिर् इति। स हि तदा प्रसुप्ततनुविच्छिन्नो भवति। विषये यो लब्धवृत्तिः स उदारः। सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति। कस् तर्हि विच्छिन्नः प्रसुप्तस् तनुर् उदारो वा क्लेश इति, उच्यते --- सत्यम् एवैतत्, किंतु विशिष्टानाम् एवैतेषां विच्छिन्नादित्वम्। यथैव प्रतिपक्षभावनातो निवृत्तस् तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति। सर्व एवामी क्लेशा अविद्याभेदाः। कस्मात्, सर्वेष्व् अविद्यैवाभिप्लवते। यद् अविद्यया वस्त्व् आकार्यते तद् एवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते क्षीयमाणां चाविद्याम् अनु क्षीयन्त इति।