The effort to harm, [lie, steal,] etc.—whether done [personally], caused to be done, or [simply] approved of; whether arising from greed, hatred, or delusion; whether subtle, medium, or extreme—has suffering and unending ignorance as its fruit. Therefore, their opposites should be cultivated.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam
vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam
YS 2.34
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] तत्र हिंसा तावत् --- कृता कारितानुमोदितेति त्रिधा। एकैका पुनस् त्रिधा लोभेन मांसचर्मार्थेन क्रोधेनापकृतम् अनेनेति मोहेन धर्मो मे भविष्यतीति। लोभक्रोधमोहाः पुनस् त्रिविधा मृदुमध्याधिमात्रा इति। एवं सप्तविंशतिर् भेदा भवन्ति हिंसायाः। मृदुमध्याधिमात्राः पुनस् त्रिधा --- मृदुमृदुर् मध्यमृदुस् तीव्रमृदुर् इति। तथा मृदुमध्यो मध्यमध्यस् तीव्रमध्य इति। तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति। एवम् एकाशीतिभेदा हिंसा भवति। सा पुनर् नियमविकल्पसमुच्चयभेदाद् असंख्येया, प्राणभृद्भेदस्यापरिसंख्येयत्वाद् इति। एवम् अनृतादिष्व् अपि योज्यम्। ते खल्व् अमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्। दुःखम् अज्ञानं चानन्तं फलं येषाम् इति प्रतिपक्षभावनम्। तथा च हिंसकस् तावत् प्रथमं वध्यस्य वीर्यम् आक्षिपति। ततश् च शस्त्रादिनिपातेन दुःखयति। ततो जीविताद् अपि मोचयति। ततो वीर्याक्षेपाद् अस्य चेतनाचेतनम् उपकरणं क्षीणवीर्यं भवति। दुःखोत्पादान् नरकतिर्यक्प्रेतादिषु दुःखम् अनुभवति, जीवितव्यपरोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो मरणम् इच्छन्न् अपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात् कथंचिद् एवोच्छ्वसिति। यदि च कथंचित् पुण्यावापगता हिंसा भवेत् तत्र सुखप्राप्तौ भवेद् अल्पायुर् इति। एवम् अनृतादिष्व् अपि योज्यं यथासंभवम्। एवं वितर्काणां चामुम् एवानुगतं विपाकम् अनिष्टं भावयन् न वितर्केषु मनः प्रणिदधीत।