Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

vitarkabādhane pratipakṣabhāvanam

vitarkabādhane pratipakṣabhāvanam

YS 2.33

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Afflicted effort implies cultivating the opposite.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] यदास्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन् हनिष्याम्य् अहम् अपकारिणम् अनृतम् अपि वक्ष्यामि द्रव्यम् अप्य् अस्य स्वीकरिष्यामि दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति। एवम् उन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानस् तत्प्रतिपक्षान् भावयेत्। घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणम् उपागतः सर्वभूताभयप्रदानेन योगधर्मः। स खल्व् अहं त्यक्त्वा वितर्कान् पुनस् तान् आददानस् तुल्यः श्ववृत्तेनेति भावयेत्। यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनर् आददान इति। एवमादि सूत्रान्तरेष्व् अपि योज्यम्।