Purity, contentment, austerity, recitation, and devotion to the present are the observances.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ
śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ
YS 2.32
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम्। आभ्यन्तरं चित्तमलानाम् आक्षालनम्। संतोषः संनिहितसाधनाद् अधिकस्यानुपादित्सा। तपो द्वंद्वसहनम्। द्वंद्वाश् च जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च। व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसांतपनादीनि। स्वाध्यायो मोक्षशास्त्राणाम् अध्ययनं प्रणवजपो वा। ईश्वरप्रणिधानं तस्मिन् परमगुरौ सर्वकर्मार्पणम्। शय्यासनस्थोऽथ पथि व्रजन् वा स्वस्थः परिक्षीणवितर्कजालः / संसारबीजक्षयम् ईक्षमाणः स्यान् नित्ययुक्तोऽमृतभोगभागी // यत्रेदम् उक्तं ततः प्रत्यक्चेतनाधिगमोऽप्य् अन्तरायाभावश् चेति।