Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam

jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam

YS 2.31

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

[Holding to these five precepts] in all spheres, [regardless of] birth, place, time, and mitigating circumstances constitutes the Great Vow.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] तत्राहिंसा जात्यवच्छिन्ना मत्स्यवधकस्य मत्स्येष्व् एव नान्यत्र हिंसा। सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति। सैव कालावच्छिन्ना न चतुर्दश्यां न पुण्येऽहनि हनिष्यामीति। सैव त्रिभिर् उपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति। यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति। एभिर् जातिदेशकालसमयैर् अनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः। सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतम् इत्य् उच्यन्ते।