Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ

ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ

YS 2.30

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Harmlessness, honesty, non-stealing, chastity and non-addiction are restraint.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] तत्राहिंसा सर्वथा सर्वदा सर्वभूतानाम् अनभिद्रोहः। उत्तरे च यमनियमास् तन्मूलास् तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते। तदवदातरूपकरणायैवोपादीयन्ते। तथा चोक्तम् --- स खल्व् अयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस् ताम् एवावदातरूपाम् अहिंसां करोति। सत्यं यथार्थे वाङ्मनसे। यथा दृष्टं यथानुमितं तथा वाङ् मनश् चेति। परत्र स्वबोधसंक्रान्तये वाग् उक्ता, सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिवन्ध्या वा भवेद् इति। एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय। यदि चैवम् अप्य् अभिधीयमाना भूतोपघातपरैव स्यान् न सत्यं भवेत् पापम् एव भवेत् तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्। तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात्। स्तेयम् अशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनर् अस्पृहारूपम् अस्तेयम् इति। ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः। विषयाणाम् अर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनाद् अस्वीकरणम् अपरिग्रह इत्य् एते यमाः।