Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ

yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ

YS 2.28

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

The “limbs” of Yoga, the wearing away of impurities, and the brilliance of *jhana* lead to detached awareness.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] योगाङ्गान्य् अष्टाव् अभिधायिष्यमाणानि। तेषाम् अनुष्ठानात् पञ्चपर्वणो विपर्ययस्याशुद्धिरूपस्य क्षयो नाशः। तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः। यथा यथा च साधनान्य् अनुष्ठीयन्ते तथा तथा तनुत्वम् अशुद्धिर् आपद्यते। यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर् विवर्धते। सा खल्व् एषा विवृद्धिः प्रकर्षम् अनुभवत्या विवेकख्यातेः, आ गुणपुरुषस्वरूपविज्ञानाद् इत्य् अर्थः। योगाङ्गानुष्ठानम् अशुद्धेर् वियोगकारणम्। यथा परशुश् छेद्यस्य। विवेकख्यातेस् तु प्राप्तिकारणं यथा धर्मः सुखस्य नान्यथा कारणम्। कति चैतानि कारणानि शास्त्रे भवन्ति। नवैवेत्य् आह। तद्यथा --- "उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः / वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् //" इति। तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य, स्थितिकारणं मनसः पुरुषार्थता, शरीरस्येवाहार इति। अभिव्यक्तिकारणं यथा रूपस्यालोकस् तथा रूपज्ञानम्, विकारकारणं मनसो विषयान्तरम्। यथाग्निः पाक्यस्य। प्रत्ययकारणं धूमज्ञानम् अग्निज्ञानस्य। प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः। वियोगकारणं तद् एवाशुद्धेः। अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः। एवम् एकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे द्वेषो दुःखत्वे रागः सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये। धृतिकारणं शरीरम् इन्द्रियाणाम्। तानि च तस्य। महाभूतानि शरीराणाम्, तानि च परस्परं सर्वेषां तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वाद् इत्य् एवं नव कारणानि। तानि च यथासंभवं पदार्थान्तरेष्व् अपि योज्यानि। योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति।