Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tasya saptadhā prāntabhūmiḥ prajñā

tasya saptadhā prāntabhūmiḥ prajñā

YS 2.27

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

It has seven parts and its final stage is wisdom.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः। सप्तधेति अशुद्ध्यावरणमलापगमाच् चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति। तद्यथा --- परिज्ञातं हेयं नास्य पुनः परिज्ञेयम् अस्ति। क्षीणा हेयहेतवो न पुनर् एतेषां क्षेतव्यम् अस्ति। साक्षात्कृतं निरोधसमाधिना हानम्। भावितो विवेकख्यातिरूपो हानोपाय इति। एषा चतुष्टयी कार्या विमुक्तिः प्रज्ञायाः। चित्तविमुक्तिस् तु त्रयी चरिताधिकारा बुद्धिः। गुणा गिरिशिखरतटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति। न चैषां प्रविलीनानां पुनर् अस्त्य् उत्पादः प्रयोजनाभावाद् इति। एतस्याम् अवस्थायां गुणसंबन्धातीतः स्वरूपमात्रज्योतिर् अमलः केवली पुरुष इति। एतां सप्तविधां प्रान्तभूमिप्रज्ञाम् अनुपश्यन् पुरुषः कुशल इत्य् आख्यायते। प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्य् एव भवति गुणातीतत्वाद् इति।