Unremitting, detached awareness is the means for attaining detachment.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
vivekakhyātir aviplavā hānopāyaḥ
vivekakhyātir aviplavā hānopāyaḥ
YS 2.26
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः। सा त्व् अनिवृत्तमिथ्याज्ञाना प्लवते। यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं संपद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति। सा विवेकख्यातिर् अविप्लवा हानोपायः। ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश् चाप्रसव इत्य् एष मोक्षस्य मार्गो हानस्योपाय इति।