Eradicating it, the conflation is [also] eradicated. That letting go is seeing liberation.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam
tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam
YS 2.25
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] तस्यादर्शनस्याभावाद् बुद्धिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्य् अर्थः। एतद् धानम्। तद्दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनर् असंयोगो गुणैर् इत्य् अर्थः। दुःखकारणनिवृत्तौ दुःखोपरमो हानम्, तदा स्वरूपप्रतिष्ठः पुरुष इत्य् उक्तम्।