Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tasya hetur avidyā

tasya hetur avidyā

YS 2.24

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

The cause of this is ignorance.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] विपर्ययज्ञानवासनेत्य् अर्थः। विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति साधिकारा पुनर् आवर्तते। सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति, चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान् न पुनर् आवर्तते। अत्र कश्चित् पण्डकोपाख्यानेनोद्घाटयति --- मुग्धया भार्ययाभिधीयते --- पण्डकार्यपुत्र, अपत्यवती मे भगिनी किमर्थं नाम नाहम् इति, स ताम् आह --- मृतस् तेऽहम् अपत्यम् उत्पादयिष्यामीति। तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति, विनष्टं करिष्यतीति का प्रत्याशा। तत्राचार्यदेशीयो वक्ति --- ननु बुद्धिनिवृत्तिर् एव मोक्षोऽदर्शनकारणाभावाद् बुद्धिनिवृत्तिः। तच् चादर्शनं बन्धकारणं दर्शनान् निवर्तते। तत्र चित्तनिवृत्तिर् एव मोक्षः, किमर्थम् अस्थान एवास्य मतिविभ्रमः।