The power of ownership over things is a misunderstanding caused by this conflation.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ
svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ
YS 2.23
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः। तस्मात् संयोगाद् दृश्यस्योपलब्धिर् या स भोगः। या तु द्रष्टुः स्वरूपोपलब्धिः सोऽपवर्गः। दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणम् उक्तम्। दर्शनम् अदर्शनस्य प्रतिद्वन्द्वीत्य् अदर्शनं संयोगनिमित्तम् उक्तम्। नात्र दर्शनं मोक्षकारणम् अदर्शनाभावाद् एव बन्धाभावः स मोक्ष इति। दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्य् अतो दर्शनं ज्ञानं कैवल्यकारणम् उक्तम्। किंचेदम् अदर्शनं नाम, किं गुणानाम् अधिकार आहोस्विद् दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः। स्वस्मिन् दृश्ये विद्यमाने यो दर्शनाभावः। किम् अर्थवत्ता गुणानाम्। अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पत्तिबीजम्। किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः। यत्रेदम् उक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणाद् अप्रधानं स्यात्। तथा गत्यैव वर्तमानं विकारनित्यत्वाद् अप्रधानं स्यात्। उभयथा चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथा। कारणान्तरेष्व् अपि कल्पितेष्व् एव समानश् चर्चः। दर्शनशक्तिर् एवादर्शनम् इत्य् एके, "प्रधानस्यात्मख्यापनार्था प्रवृत्तिः" इति श्रुतेः। सर्वबोध्यबोधसमर्थः प्राक्प्रवृत्तेः पुरुषो न पश्यति सर्वकार्यकरणसमर्थं दृश्यं तदा न दृश्यत इति। उभयस्याप्य् अदर्शनं धर्म इत्य् एके। तत्रेदं दृश्यस्य स्वात्मभूतम् अपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति। तथा पुरुषस्यानात्मभूतम् अपि दृश्यप्रत्ययापेक्षं पुरुषधर्मत्वेनेवादर्शनम् अवभासते। दर्शनं ज्ञानम् एवादर्शनम् इति केचिद् अभिदधति। इत्य् एते शास्त्रगता विकल्पाः। तत्र विकल्पबहुत्वम् एतत् सर्वपुरुषाणां गुणानां संयोगे साधारणविषयम्।