Its purpose done, it vanishes—though the object doesn't, commonly speaking.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt
kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt
YS 2.22
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] कृतार्थम् एकं पुरुषं प्रति दृश्यं नष्टम् अपि नाशं प्राप्तम् अप्य् अनष्टं तदन्यपुरुषसाधारणत्वात्। कुशलं पुरुषं प्रति नाशं प्राप्तम् अप्य् अकुशलान् पुरुषान् प्रति न कृतार्थम् इति तेषां दृशेः कर्मविषयताम् आपन्नं लभत एव पररूपेणात्मरूपम् इति। अतश् च दृग्दर्शनशक्त्योर् नित्यत्वाद् अनादिः संयोगो व्याख्यात इति। तथा चोक्तम् --- धर्मिणाम् अनादिसंयोगाद् धर्ममात्राणाम् अप्य् अनादिः संयोग इति।