“The seer” is only [the action of] seeing: pure attending and observing.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ
draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ
YS 2.20
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] दृशिमात्र इति दृक्शक्तिर् एव विशेषणापरामृष्टेत्य् अर्थः। स पुरुषो भुद्धेः प्रतिसंवेदी। स बुद्धेर् न सरूपो नात्यन्तं विरूप इति। न तावत् सरूपः कस्मात्। ज्ञाताज्ञातविषयत्वात् परिणामिनी हि बुद्धिः। तस्याश् च विषयो गवादिर् घटादिर् वा ज्ञातश् चाज्ञातश् चेति परिणामित्वं दर्शयति। सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति कस्मात्। न हि बुद्धिश् च नाम पुरुषविषयश् च स्याद् अगृहीता गृहीता चेति सिद्धं पुरुषस्य सदाज्ञातविषयत्वं ततश् चापरिणामित्वम् इति। किं च परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति। तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणा बुद्धिस् त्रिगुणत्वाद् अचेतनेति। गुणानां तूपद्रष्टा पुरुष इत्य् अतो न सरूपः। अस्तु तर्हि विरूप इति। नात्यन्तं विरूपः कस्मात्। शुद्धोऽप्य् असौ प्रत्ययानुपश्यो यतः। प्रत्ययं बौद्धम् अनुपश्यति, तम् अनुपश्यन्न् अतदात्मापि तदात्मक इव प्रत्यवभासते। तथा चोक्तम् --- अपरिणामिनी हि भोक्तृशक्तिर् अप्रतिसंक्रमा च परिणामिन्य् अर्थे प्रतिसंक्रान्तेव तद्वृत्तिम् अनुपतति, तस्याश् च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेर् अनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिर् इत्य् आख्यायते।