Differentiated, undifferentiated, distinct or indistinct are just levels of sense contact.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi
viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi
YS 2.19
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] तत्राकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणाम् अविशेषाणां विशेषाः। तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि, एकादशं मनः सर्वार्थम्, इत्य् एतान्य् अस्मितालक्षणस्याविशेषस्य विशेषाः। गुणानाम् एष षोडशको विशेषपरिणामः। षड् अविशेषाः। तद्यथा --- शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः, षष्ठश् चाविशेषोऽस्मितामात्र इति। एते सत्तामात्रस्यात्मनो महतः षडविशेषपरिणामाः। यत् तत् परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्न् एते सत्तामात्रे महत्य् आत्मन्य् अवस्थाय विवृद्धिकाष्ठाम् अनुभवन्ति। प्रतिसंसृज्यमानाश् च तस्मिन्न् एव सत्तामात्रे महत्य् आत्मन्य् अवस्थाय यत् तन् निःसत्तासत्तं निःसदसन् निरसद् अव्यक्तम् अलिङ्गं प्रधानं तत् प्रतियन्ति। एष तेषां लिङ्गमात्रः परिणामो निःसत्तासत्तं चालिङ्गपरिणाम इति। अलिङ्गावस्थायां न पुरुषार्थो हेतुर् नालिङ्गावस्थायाम् आदौ पुरुषार्थता कारणं भवतीति। न तस्याः पुरुषार्थता कारणं भवतीति। नासौ पुरुषार्थकृतेति नित्याख्यायते। त्रयाणां त्व् अवस्थाविशेषाणाम् आदौ पुरुषार्थता कारणं भवति। स चार्थो हेतुर् निमित्तं कारणं भवतीत्य् अनित्याख्यायते। गुणास् तु सर्वधर्मानुपातिनो न प्रत्यस्तम् अयन्ते नोपजायन्ते। व्यक्तिभिर् एवातीतानागतव्ययागमवतीभिर् गुणान्वयिनीभिर् उपजननापायधर्मका इव प्रत्यवभासन्ते। यथा देवदत्तो दरिद्राति। कस्मात् यतोऽस्य म्रियन्ते गाव इति, गवाम् एव मरणात् तस्य दरिद्राणं न स्वरूपहानाद् इति समः समाधिः। लिङ्गमात्रम् अलिङ्गस्य प्रत्यासन्नं, तत्र तत् संसृष्टं विविच्यते क्रमान् अतिवृत्तयः। तथा षड् अविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात्। तथा तेष्व् अविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते। तथा चोक्तं पुरस्तात्। न विशेषेभ्यः परं तत्त्वान्तरम् अस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः। तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते।