“Seeing” is [merely] the continuous, “brightness” activity with the virtue of transforming the elements and the [visual] faculties into objects of experience.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam
prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam
YS 2.18
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] प्रकाशशीलं सत्त्वम्। क्रियाशीलं रजः स्थितिशीलं तम इति। एते गुणाः परस्परोपरक्तप्रविभागाः परिणामिनः संयोगवियोगधर्माण इतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेऽप्य् असंभिन्नशक्तिप्रविभागास् तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायाम् उपदर्शितसंनिधाना गुणत्वेऽपि च व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः संनिधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः प्रत्ययम् अन्तरेणैकतमस्य वृत्तिम् अनुवर्तमानाः प्रधानशब्दवाच्या भवन्ति। एतद् दृश्यम् इत्य् उच्यते। तद् एतद् भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते। तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति। तत् तु नाप्रयोजनम् अपि तु प्रयोजनम् उररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद् दृश्यं पुरुषस्येति। तत्रेष्टानिष्टगुणस्वरूपावधारणम् अविभागापन्नं भोगो भोक्तुः स्वरूपावधारणम् अपवर्ग इति। द्वयोर् अतिरिक्तम् अन्यद् दर्शनं नास्ति। तथा चोक्तम् --- अयं तु खलु त्रिषु गुणेषु कर्तृष्व् अकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तत्क्रियासाक्षिण्य् उपनीयमानान् सर्वभावान् उपपन्नान् अनुपश्यन्न् अदर्शनम् अन्यच् छङ्कत इति। ताव् एतौ भोगापवर्गौ बुद्धिकृतौ बुद्धाव् एव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति। यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धाव् एव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फलस्य भोक्तेति। बुद्धेर् एव पुरुषार्थापरिसमाप्तिर् बन्धस् तदर्थावसायो मोक्ष इति। एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः। स हि तत्फलस्य भोक्तेति।