Eliminate its cause: conflating “seeing” with “a seer”!
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ
draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ
YS 2.17
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः। दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः। तद् एतद् दृश्यम् अयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयताम् आपन्नं यतः। अन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रम् अपि परार्थत्वात् परतन्त्रम्। तयोर् दृग्दर्शनशक्त्योर् अनादिर् अर्थकृतः संयोगो हेयहेतुर् दुःखस्य कारणम् इत्य् अर्थः। तथा चोक्तम् --- तत्संयोगहेतुविवर्जनात् स्याद् अयम् आत्यन्तिको दुःखप्रतीकारः। कस्मात्, दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात्। तद्यथा --- पादतलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः कण्टकस्य पा(प)दानधिष्ठानं पादत्राणव्यवहितेन वाधिष्ठानम्, एतत् त्रयं यो वेद लोके स तत्र प्रतीकारम् आरभमाणो भेदजं दुःखं नाप्नोति। कस्मात्, त्रित्वोपलब्धिसामर्थ्याद् इति। अत्रापि तापकस्य रजसः सत्त्वम् एव तप्यम्। कस्मात्, तपिक्रियायाः कर्मस्थत्वात्, सत्त्वे कर्मणि तपिक्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे, दर्शितविषयत्वात्। सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्य् अनुतप्यत इति।