Eliminate future stress!
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
heyaṃ duḥkham anāgatam
heyaṃ duḥkham anāgatam
YS 2.16
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] दुःखम् अतीतम् उपभोगेनातिवाहितं न हेयपक्षे वर्तते। वर्तमानं च स्वक्षणे भोगारूढम् इति न तत् क्षणान्तरे हेयताम् आपद्यते। तस्माद् यद् एवानागतं दुःखं तद् एवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं प्रतिपत्तारम्। तद् एव हेयताम् आपद्यते।