Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ

pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ

YS 2.15

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Change, austerity, activity, pain, sense contact, whirling, and conflict—to the discerning, however, all is stressful.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] सर्वस्यायं रागानुविद्धश् चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः। तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्य् अस्ति कर्माशयः। तथा चोक्तम् --- "नानुपहत्य भूतान्य् उपभोगः संभवतीति हिंसाकृतोऽप्य् अस्ति शरीरः कर्माशयः" इति। विषयसुखं चाविद्येत्य् उक्तम्। या भोगेष्व् इन्द्रियाणां तृप्तेर् उपशान्तिस् तत् सुखम्। या लौल्याद् अनुपशान्तिस् तद् दुःखम्। न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम्। कस्मात्, यतो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम् इति। तस्माद् अनुपायः सुखस्य भोगाभ्यास इति। स खल्व् अयं वृश्चिकविषभीत इवाशीविषेण दष्टो यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति। एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायाम् अपि योगिनम् एव क्लिश्नाति। अथ का तापदुःखता, सर्वस्य द्वेषानुविद्धश् चेतनाचेतनसाधनाधीनस् तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः। सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परम् अनुगृह्णात्य् उपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्माव् उपचिनोति। स कर्माशयो लोभान् मोहाच् च भवतीत्य् एषा तापदुःखतोच्यते। का पुनः संस्कारदुःखता, सुखानुभवात् सुखसंस्काराशयो दुःखानुभवाद् अपि दुःखसंस्काराशय इति। एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति। एवम् इदम् अनादि दुःखस्रोतो विप्रसृतं योगिनम् एव प्रतिकूलात्मकत्वाद् उद्वेजयति। कस्मात्, अक्षिपात्रकल्पो हि विद्वान् इति। यथोर्णातन्तुर् अक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति न चान्येषु गात्रावयवेषु, एवम् एतानि दुःखान्य् अक्षिपात्रकल्पं योगिनम् एव क्लिश्नन्ति नेतरं प्रतिपत्तारम्। इतरं तु स्वकर्मोपहृतं दुःखम् उपात्तम् उपात्तं त्यजन्तं त्यक्तं त्यक्तम् उपाददानम् अनादिवासनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धम् इवाविद्यया हातव्य एवाहंकारममकारानुपातिनं जातं जातं बाह्याध्यात्मिकोभयनिमित्तास् त्रिपर्वाणस् तापा अनुप्लवन्ते। तद् एवम् अनादिना दुःखस्रोतसा व्युह्यमानम् आत्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति। गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः। प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्री भूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणम् एवारभन्ते। चलं च गुणवृत्तम् इति क्षिप्रपरिणामि चित्तम् उक्तम्। रूपातिशया वृत्त्यतिशयाश् च परस्परेण विरुध्यन्ते, सामान्यानि त्व् अतिशयैः सह प्रवर्तन्ते। एवम् एते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति, गुणप्रधानभावकृतस् त्व् एषां विशेष इति। तस्माद् दुःखम् एव सर्वं विवेकिन इति। तद् अस्य महतो दुःखसमुदायस्य प्रभवबीजम् अविद्या। तस्याश् च सम्यग्दर्शनम् अभावहेतुः। यथा चिकित्साशास्त्रं चतुर्व्यूहम् --- रोगो रोगहेतुर् आरोग्यं भैषज्यम् इति। एवम् इदम् अपि शास्त्रम् चतुर्व्यूहम् एव। तद्यथा --- संसारः संसारहेतुर् मोक्षो मोक्षोपाय इति। तत्र दुःखबहुलः संसारो हेयः। प्रधानपुरुषयोः संयोगो हेयहेतुः। संयोगस्यात्यन्तिकी निवृत्तिर् हानम्। हानोपायः सम्यग्दर्शनम्। तत्र हातुः स्वरूपम् उपादेयं वा हेयं वा न भवितुम् अर्हतीति हाने तस्योच्छेदवादप्रसङ्ग उपादाने च हेतुवादः। उभयप्रत्याख्याने शाश्वतवाद इत्य् एतत् सम्यग्दर्शनम्।