There being a root, there will be fruit: birth, aging, and experience.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
sati mūle tadvipāko jātyāyurbhogāḥ
sati mūle tadvipāko jātyāyurbhogāḥ
YS 2.13
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः। यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति, नापनीततुषा दग्धबीजभावा वा तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति। स च विपाकस् त्रिविधो जातिर् आयुर् भोग इति। तत्रेदं विचार्यते --- किम् एकं कर्मैकस्य जन्मनः कारणम् अथैकं कर्मानेकं जन्माक्षिपतीति। द्वितीया विचारणा --- किम् अनेकं कर्मानेकं जन्म निर्वर्तयति अथानेकं कर्मैकं जन्म निर्वर्तयतीति। न तावद् एकं कर्मैकस्य जन्मनः कारणम्। कस्मात्, अनादिकालप्रचितस्यासंख्येयस्यावशिष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानियमाद् अनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति। न चैकं कर्मानेकस्य जन्मनः कारणम्। कस्मात्, अनेकेषु कर्मसु एकैकम् एव कर्मानेकस्य जन्मनः कारणम् इत्य् अवशिष्टस्य विपाककालाभावः प्रसक्तः, स चाप्य् अनिष्ट इति। न चानेकं कर्मानेकस्य जन्मनः कारणम्। कस्मात्, तद् अनेकं जन्म युगपन् न संभवतीति क्रमेणैव वाच्यम्। तथा च पूर्वदोषानुषङ्गः। तस्माज् जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य संमूर्छित एकम् एव जन्म करोति। तच् च जन्म तेनैव कर्मणा लब्धायुष्कं भवति। तस्मिन्न् आयुषि तेनैव कर्मणा भोगः संपद्यत इति। असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाकोऽभिधीयत इति। अत एकभविकः कर्माशय उक्त इति। दृष्टजन्मवेदनीयस् त्व् एकविपाकारम्भी भोगहेतुत्वाद् द्विविपाकारम्भी वायुर्भोगहेतुत्वान् नन्दीश्वरवन् नहुषवद् वेति। क्लेशकर्मविपाकानुभवनिर्वर्तिताभिस् तु वासनाभिर् अनादिकालसंमूर्छितम् इदं चित्तं विचित्रीकृतम् इव सर्वतो मत्स्यजालं ग्रन्थिभिर् इवाततम् इत्य् एता अनेकभवपूर्विका वासनाः। यस् त्व् अयं कर्माशय एष एवैकभविक उक्त इति। ये संस्काराः स्मृतिहेतवस् ता वासनास् ताश् चानादिकालीना इति। यस् त्व् असाव् एकभविकः कर्माशयः स नियतविपाकश् चानियतविपाकश् च। तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्व् अदृष्टजन्मवेदनीयस्यानियतविपाकस्य कस्मात्। यो ह्य् अदृष्टजन्मवेदनीयोऽनियतविपाकस् तस्य त्रयी गतिः --- कृतस्याविपक्वस्य नाशः, प्रधानकर्मण्य् आवापगमनं वा, नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरम् अवस्थानम् इति। तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयाद् इहैव नाशः कृष्णस्य। यत्रेदम् उक्तम् --- "द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति तद् इच्छस्व कर्माणि सुकृतानि कर्तुम् इहैव ते कर्म कवयो वेदयन्ते." प्रधानकर्मण्य् आवापगमनम्। यत्रेदम् उक्तं --- "स्यात् स्वल्पः संकरः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालम्। कस्मात्, कुशलं हि मे बह्व् अन्यद् अस्ति यत्रायम् आवापं गतः स्वर्गेऽप्य् अपकर्षम् अल्पं करिष्यति" इति। नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरम् अवस्थानम्। कथम् इति, अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणम् अभिव्यक्तिकारणम् उक्तम्। न त्व् अदृष्टजन्मवेदनीयस्यानियतविपाकस्य। यत् त्व् अदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन् नश्येद् आवापं वा गच्छेद् अभिभूतं वा चिरम् अप्य् उपासीत, यावत् समानं कर्माभिव्यञ्जकं निमित्तम् अस्य न विपाकाभिमुखं करोतीति। तद्विपाकस्यैव देशकालनिमित्तानवधारणाद् इयं कर्मगतिश् चित्रा दुर्विज्ञाना चेति। न चोत्सर्गस्यापवादान् निवृत्तिर् इत्य् एकभविकः कर्माशयोऽनुज्ञायत इति।