The tendency to act is rooted in the defilements and is felt throughout seen and unseen births.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ
kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ
YS 2.12
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधभवः। स दृष्टजन्मवेदनीयश् चादृष्टजन्मवेदनीयश् च। तत्र तीव्रसंवेगेन मन्त्रतपःसमाधिभिर् निर्वर्तित ईश्वरदेवतामहर्षिमहानुभावानाम् आराधनाद् वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति। तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनर् अपकारः स चापि पापकर्माशयः सद्य एव परिपच्यते। यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः। तथा नहुषोऽपि देवानाम् इन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणत इति। तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः। क्षीणक्लेशानाम् अपि नास्त्य् अदृष्टजन्मवेदनीयः कर्माशय इति।