Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

dhyānaheyās tadvṛttayaḥ

dhyānaheyās tadvṛttayaḥ

YS 2.11

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Eliminated, that is, through meditation.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] क्लेशानां या वृत्तयः स्थूलास् ताः क्रियायोगेन तनूकृताः सत्यः प्रसंख्यानेन ध्यानेन हातव्या यावत् सूक्ष्मीकृता यावद् दग्धबीजकल्पा इति। यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते पश्चात् सूक्ष्मो यत्नेनोपायेन चापनीयते तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास् तु महाप्रतिपक्षा इति।