Austerity, self-study, and surrender to the Lord — these constitute kriya yoga.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः॥
tapaḥ-svādhyāyeśvara-praṇidhānāni kriyā-yogaḥ
YS 2.1
Audio
Translations & commentaries(3)
Sūtra — Translation
[Vyāsa Bhāṣya] नैकान्तेन समाधिभाजनं व्युत्थितचित्त इति । स तु क्रियायोगेनोपष्टब्धः सम्प्रज्ञातं समाधिं लभते । तपसा अनभिष्यन्दितदेहकरणस्य सत्त्वशुद्धिर्योगः । न च असंक्लिश्यमानेन तपसा योगसिद्धिर्भवतीति । स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा । ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा ।
Bhāṣya — Commentary
[Tattvavaiśāradī Vṛtti – excerpt] तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः। ननु प्रथमपादेनैव सोपायः सावान्तरप्रभेदः सफलो योग उक्तस्तत् किम् अपरम् अवशिष्यते यदर्थं द्वितीयः पादः प्रारभ्येतेत्य् अत आह — उद्दिष्ट इति। अभ्यासवैराग्ये हि योगोपायौ प्रथमे पाद उक्तौ। न च तौ व्युत्थितचित्तस्य द्राग् इत्य् एव संभवत इति द्वितीयपादोपदेश्यान् उपायान् अपेक्षते सत्त्वशुद्ध्यर्थम्।