{"speaker":"Vidura","subParva":"प्रजागरपर्व"}
Vidura Niti
विदुरनीतिः
मूल श्लोकः
यो नोद्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्थतेऽन्यान् | न मूर्च्छितः कटुकान्याह किं चि; त्प्रियं सदा तं कुरुते जनोऽपि
yo noddhataṃ kurute jātu veṣaṃ; na pauruṣeṇāpi vikatthate'nyān | na mūrcchitaḥ kaṭukānyāha kiṃ ci; tpriyaṃ sadā taṃ kurute jano'pi
VN 1.92