Mokshadharma Parva · अध्याय 48
Mokshadharma 48 (BORI 215, vulgate 221)
अध्यायः २१५
Shanti Parva Mokshadharma chapter 48 of 186.
- Moksha 48.1Open verse →
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाशुभम् | पुरुषं योजयत्येव फलयोगेन भारत
Meaning
{"speaker":"Yudhishthira","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.2Open verse →
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः | एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.3Open verse →
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | प्रह्रादस्य च संवादमिन्द्रस्य च युधिष्ठिर
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.4Open verse →
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् | अस्तम्भमनहङ्कारं सत्त्वस्थं समये रतम्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.5Open verse →
तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम् | चराचराणां भूतानां विदितप्रभवाप्ययम्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.6Open verse →
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च | काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.7Open verse →
आत्मनिःश्रेयसज्ञाने धीरं निश्चितनिश्चयम् | परावरज्ञं भूतानां सर्वज्ञं समदर्शनम्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.8Open verse →
शक्रः प्रह्रादमासीनमेकान्ते संयतेन्द्रियम् | बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.9Open verse →
यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु | भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.10Open verse →
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह | आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.11Open verse →
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः | श्रिया विहीनः प्रह्राद शोचितव्ये न शोचसि
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.12Open verse →
प्रज्ञालाभात्तु दैतेय उताहो धृतिमत्तया | प्रह्राद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.13Open verse →
इति सञ्चोदितस्तेन धीरो निश्चितनिश्चयः | उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.14Open verse →
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते | तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.15Open verse →
स्वभावात्सम्प्रवर्तन्ते निवर्तन्ते तथैव च | सर्वे भावास्तथाभावाः पुरुषार्थो न विद्यते
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.16Open verse →
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः | स्वयं तु कुर्वतस्तस्य जातु मानो भवेदिह
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.17Open verse →
यस्तु कर्तारमात्मानं मन्यते साध्वसाधुनोः | तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.18Open verse →
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् | आरम्भास्तस्य सिध्येरन्न च जातु पराभवेत्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.19Open verse →
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च | लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.20Open verse →
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृत्तिमेव च | अप्रयत्नेन पश्यामः केषाञ्चित्तत्स्वभावतः
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.21Open verse →
प्रतिरूपधराः केचिद्दृश्यन्ते बुद्धिसत्तमाः | विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.22Open verse →
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा | शुभाशुभास्तदा तत्र तस्य किं मानकारणम्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.23Open verse →
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः | आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततोऽन्यथा
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.24Open verse →
कर्मजं त्विह मन्येऽहं फलयोगं शुभाशुभम् | कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.25Open verse →
यथा वेदयते कश्चिदोदनं वायसो वदन् | एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.26Open verse →
विकारानेव यो वेद न वेद प्रकृतिं पराम् | तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.27Open verse →
स्वभावभाविनो भावान्सर्वानेवेह निश्चये | बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.28Open verse →
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम् | तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.29Open verse →
निर्ममो निरहङ्कारो निरीहो मुक्तबन्धनः | स्वस्थोऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.30Open verse →
कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः | नायासो विद्यते शक्र पश्यतो लोकविद्यया
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.31Open verse →
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे | द्वेष्टारं न च पश्यामि यो ममाद्य ममायते
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.32Open verse →
नोर्ध्वं नावाङ्न तिर्यक्च न क्वचिच्छक्र कामये | न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.33Open verse →
येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते | प्रब्रूहि तमुपायं मे सम्यक्प्रह्राद पृच्छते
Meaning
{"speaker":"शक्र","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.34Open verse →
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया | वृद्धशुश्रूषया शक्र पुरुषो लभते महत्
Meaning
{"speaker":"Prahlada","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.35Open verse →
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः | स्वभावादेव तत्सर्वं यत्किञ्चिदनुपश्यसि
Meaning
{"speaker":"Prahlada","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.36Open verse →
इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत् | प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत्
Meaning
{"speaker":"Bhishma","innerSection":"इन्द्रप्रह्रादसंवादः","subParva":"mokshadharma","boriChapter":215,"vulgateChapter":221}
- Moksha 48.37Open verse →
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः | असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम्