Sant Seva ParishadSant Seva ParishadSSP · sant seva
← Verse view|📖 Mokshadharma Parva · Ch 16
« Ch 15Ch 17 »

Mokshadharma Parva · अध्याय 16

Mokshadharma 16 (BORI 183, vulgate 189)

अध्यायः १८३

Shanti Parva Mokshadharma chapter 16 of 186.

  1. Moksha 16.1Open verse →

    भृगुरुवाच|| सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः | सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  2. Moksha 16.2Open verse →

    अनृतं तमसो रूपं तमसा नीयते ह्यधः | तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम्

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  3. Moksha 16.3Open verse →

    स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च | सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  4. Moksha 16.4Open verse →

    तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत् | धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  5. Moksha 16.5Open verse →

    तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति | तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  6. Moksha 16.6Open verse →

    अत्रोच्यते शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः | लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  7. Moksha 16.7Open verse →

    तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः | सुखं ह्यनित्यं भूतानामिह लोके परत्र च

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  8. Moksha 16.8Open verse →

    राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते | तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम्

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  9. Moksha 16.9Open verse →

    तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते | न ह्यतस्त्रिवर्गफलं विशिष्टतरमस्ति स एष काम्यो गुणविशेषो धर्मार्थयोरारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजना भरद्वाज उवाच

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  10. Moksha 16.10Open verse →

    यदेतद्भवताभिहितं सुखानां परमाः स्त्रिय इति तन्न गृह्णीमः न ह्येषामृषीणां महति स्थितानामप्राप्य एष गुणविशेषो न चैनमभिलषन्ति श्रूयते च भगवांस्त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन शममनयत् तस्माद्ब्रूमो न महात्मभिरयं प्रतिगृहीतो न त्वेष तावद्विशिष्टो गुण इति नैतद्भगवतः प्रत्येमि भगवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादोऽपि च भवति द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति अत्रोच्यताम् भृगुरुवाच

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  11. Moksha 16.11Open verse →

    अनृतात्खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम् क्रोधलोभमोहमानानृतादिभिरवच्छन्ना न खल्वस्मिँल्लोके न चामुत्र सुखमाप्नुवन्ति विविधव्याधिगणोपतापैरवकीर्यन्ते वधबन्धरोगपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते | चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  12. Moksha 16.12Open verse →

    यस्त्वेतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते स सुखं वेद | न चैते दोषाः स्वर्गे प्रादुर्भवन्ति तत्र भवति खलु

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  13. Moksha 16.13Open verse →

    सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा | क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम्

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  14. Moksha 16.14Open verse →

    नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् | नरके दुःखमेवाहुः समं तु परमं पदम्

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  15. Moksha 16.15Open verse →

    पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः | पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः

    Meaning

    {"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}

  16. Moksha 16.16Open verse →

    इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा | प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः