Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva

मोक्षधर्म

मूल श्लोकः

यदेतद्भवताभिहितं सुखानां परमाः स्त्रिय इति तन्न गृह्णीमः न ह्येषामृषीणां महति स्थितानामप्राप्य एष गुणविशेषो न चैनमभिलषन्ति श्रूयते च भगवांस्त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन शममनयत् तस्माद्ब्रूमो न महात्मभिरयं प्रतिगृहीतो न त्वेष तावद्विशिष्टो गुण इति नैतद्भगवतः प्रत्येमि भगवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादोऽपि च भवति द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति अत्रोच्यताम् भृगुरुवाच

Moksha 16.10

Audio
Translations & commentaries(1)

Padārtha Word-meaning

Padārtha· META

{"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":183,"vulgateChapter":189}