Kena Upanishad · Chapter 3
Khanda 3
तृतीयः खण्डः
The parable of the yaksha — Indra, Agni, Vayu cannot fathom Brahman.
7 verses
५॥ ॥2॥
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥ त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥14॥
१॥ तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥15॥
२॥ तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥16॥
३॥ तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा अहमस्मीति ॥17॥
४॥ तस्मिंस्त्वयि किं वीर्यमित्यपीदँ सर्वं दहेयं यदिदं पृथिव्यामिति ॥18॥
५॥ तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥19॥