Isha Upanishad · Chapter 1
Mantras
मन्त्राः
The 18 verses of the Isha Upanishad.
19 verses
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥ ॐ शान्तिः शान्तिः शान्तिः॥
oṁ pūrṇam adaḥ pūrṇam idaṁ pūrṇāt pūrṇam udacyate pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate oṁ śāntiḥ śāntiḥ śāntiḥ
Meaning (English)
That is full; this is full. From the full, the full proceeds. Taking the full from the full, the full alone remains. Om — peace, peace, peace.
ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥
īśā vāsyam idaṁ sarvaṁ yat kiñca jagatyāṁ jagat tena tyaktena bhuñjīthā mā gṛdhaḥ kasya svid dhanam
Meaning (English)
All this — whatever moves in this moving world — is pervaded by the Lord. Therefore enjoy through renunciation; do not covet anyone's wealth.
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः ॥ एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥2॥
असूर्या नाम ते लोका अन्धेन तमसावृताः ॥ ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनः ॥3॥
अनेजदेकं मन्सो जवीयो नैनद्देवा आप्नुवन्प्रुर्वमर्षत् ॥ तद्धावतोऽन्यान्त्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥4॥
तदेजति तन्नैजति तद्दूरे तद्वन्तिके॥ तदन्तरस्य सर्वस्य तदु सर्वस्यास्य याह्यतः ॥5॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति। सर्वभूतेषु चात्मानं ततो न विजुगुप्सते॥
yas tu sarvāṇi bhūtāny ātmany evānupaśyati sarva-bhūteṣu cātmānaṁ tato na vijugupsate
Meaning (English)
One who sees all beings in the Self alone, and the Self in all beings — for him there is no aversion thereafter.
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः॥
yasmin sarvāṇi bhūtāny ātmaivābhūd vijānataḥ tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ
Meaning (English)
When to the knower all beings have become the very Self — what delusion, what sorrow, can there be for one who sees this oneness?
कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥8॥
अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ॥ ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥9॥
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥10॥
विद्यां चाविद्यां च यस्तद्वेदोभयँ स ह ॥ अविद्द्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥11॥
अन्धन्तमः प्रविशन्ति येऽसंभूतिमुपासते ॥ ततो भूय इव ते तमो य उ संभूत्याँ रताः ॥12॥
अन्यदेवाहुः संभवादन्यदाहुरसंभवात् ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥13॥
संभूतिं च विनाशं च यस्तद्वेदोभयँ सह ॥ विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते ॥14॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्। तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये॥
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham tat tvaṁ pūṣann apāvṛṇu satya-dharmāya dṛṣṭaye
Meaning (English)
The face of truth is covered with a golden disc. Uncover it, O Pushan (Sun), for the sight of one whose dharma is truth.
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह ॥ तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥16॥
-----Page-----------------२-- वायुरनिलममृतमथेदं भस्मान्तँ शरीरम् ॥ ॐ क्रमो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥17॥
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनो भुयिष्ठां ते नमौक्तिं विधेम ॥18॥